वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: रेणुः छन्द: त्रिष्टुप् स्वर: धैवतः

न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑य॒: सोमो॑ अक्षाः । यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥

अंग्रेज़ी लिप्यंतरण

na yasya dyāvāpṛthivī na dhanva nāntarikṣaṁ nādrayaḥ somo akṣāḥ | yad asya manyur adhinīyamānaḥ śṛṇāti vīḻu rujati sthirāṇi ||

पद पाठ

न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ । यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥ १०.८९.६

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:6 | अष्टक:8» अध्याय:4» वर्ग:15» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्य) जिस परमात्मा के स्वरूप को (द्यावापृथिवी न) द्युलोक पृथिवीलोक व्याप नहीं सकते, नहीं प्राप्ति कर सकते (धन्व न) मेघरूप जल भी नहीं पा सकता (अन्तरिक्षं न) अन्तरिक्ष नहीं पा सकता (अद्रयः-न) पर्वत भी नहीं पा सकते (सोमः-अक्षाः) शान्त ब्राह्मण पा सकता है (यत्-अस्य मन्युः-अधिनीयमानः) इस परमात्मा का मन्यु प्रेरित हुआ (वीळु शृणाति) बलवाली वस्तुओं को नष्ट करता है (स्थिराणि रुजति) दृढ वस्तुओं को भङ्ग करता है ॥६॥
भावार्थभाषाः - परमात्मा के स्वरूप को संसार का बड़े से बड़ा पदार्थ पा नहीं सकता, केवल शान्त ऊँचा ब्राह्मण उसे जान सकता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्य) यस्येन्द्रस्य परमात्मनः स्वरूपं (द्यावापृथिवी न)  द्यावापृथिव्यौ नाश्नुवाते (धन्वं न) द्यावापृथिव्योर्मध्ये गमनशीलं मेघरूपं जलम् “धन्वतिकर्मा” [निघं २।२४] नाश्नुते (अन्तरिक्षं न) अन्तरिक्षमपि नाश्नुते (अद्रयः-न) पर्वताः खल्वपि नाश्नुवते (सोमः-अक्षाः) किन्तु शान्तो ब्राह्मणोऽश्नुते (यत्-अस्य मन्युः-अधिनीयमानः) यदाऽस्येन्द्रस्य परमात्मनो मन्युः प्रेर्यमाणः (वीळु शृणाति) बलानि बलवन्ति खल्वपि सत्त्वानि विनाशयति (स्थिराणि रुजति) दृढानि भनक्ति ॥६॥